|
|
 |
 |
|
|
७ द्रोणपर्व.jpg)
॥ श्रीः ॥
7.113. अध्यायः 113
Mahabharata - Drona Parva - Chapter Topics
अर्जुनं गच्छतः सात्यकेः कृतवर्मणासह युद्धम्॥ 1 ॥

Mahabharata - Drona Parva - Chapter Text
सञ्जय उवाच। 7-113-0x(4549)(49368)
प्रयाते तव सैन्यं तु युयुधाने युयुत्सया।
धर्मराजो महाराज स्वेनानीकेन संवृतः।
प्रायाद्द्रोणरथं प्रेप्सुर्युयुधानस्य पृष्ठतः॥ 7-113-1(49369)
ततः पाञ्चालराजस्य पुत्रः समरदुर्मदः।
`प्रयाते माधवे राजन्निदं वचनमब्रवीत्'॥ 7-113-2(49370)
प्राक्रोशत्पाण्डवानीके वसुदानश्च पार्थिवः।
आगच्छत प्रहरत द्रुतं विपरिधावत॥ 7-113-3(49371)
यथा सुखेन गच्छेत सात्यकिर्युद्धदुर्मदः।
महारथा हि बहवो यतिष्यन्तेऽस्य निर्जये॥ 7-113-4(49372)
सञ्जय उवाच। 7-113-5x(4550)
`सेनापतिवचः श्रुत्वा पाण्डवेयाः समन्ततः।
अभ्युद्ययुर्महाराज तव सैन्यं समन्ततः॥ 7-113-5(49373)
जहि प्रहर गृह्णीहि विध्य विद्रव चाद्रव'।
इति ब्रुवन्तौ वेगेन निपेतुस्ते महारथाः॥ 7-113-6(49374)
वयं प्रतिजिगीषन्तस्तत्र तान्समभिद्रुताः।
`बाणशङ्खरवान्कृत्वा विमिश्रान्वाद्यनिस्वनैः॥ 7-113-7(49375)
युयुधानरथं दृष्ट्वा तावका अभिदुद्रुवुः'।
ततः शब्दो महानासीद्युयुधानरथं प्रति॥ 7-113-8(49376)
आकीर्यमाणा धावन्ती तव पुत्रस्य वाहिनी।
सात्वतेन महाराज शतधाऽभिव्यशीर्यत॥ 7-113-9(49377)
तस्यां विदीर्यमाणायां शिनेः पुत्रो महारथः।
सप्तवीरान्महेष्वासानग्रानीकेष्वपोथयत्॥ 7-113-10(49378)
अथान्यानपि राजेन्द्र नानाजनपदेश्वरान्।
शरैरनलसङ्काशैर्निन्ये वीरान्यमक्षयम्॥ 7-113-11(49379)
शतमेकेन विव्याध शतेनैकं च पत्रिणाम्।
द्विपारोहान्द्विपांश्चैव हयारोहान्हयांस्तथा।
रथिनः साश्वसूतांश्च जघानेशः पशूनिव॥ 7-113-12(49380)
तं तथाऽद्भुतकर्माणं शरसम्पातवर्षिणम्।
न केचनाभ्यधावन्वै सात्यकिं तव सैनिकाः॥ 7-113-13(49381)
ते भीता मृद्यमानाश्च प्रमृष्टा दीर्घबाहुना।
आयोधनं जहुर्वीरा दृष्टा तमतिमानिनम्॥ 7-113-14(49382)
तमेकं बहुधा पश्यन्मोहितास्तस्य तेजसा॥ 7-113-15(49383)
रथैर्विमथितैश्चैव भग्ननीडैश्च मारिष।
चक्रैर्विमथितैश्छत्रैर्ध्वजैश्च विनिपातितैः॥ 7-113-16(49384)
अनुकर्षैः पताकाभिः शिरस्त्राणैः सकाञ्चनैः।
बाहुभिश्चन्दनादिग्धैः साङ्गदैश्च विशाम्पते॥ 7-113-17(49385)
हस्तिहस्तोपमैश्चापि भुजङ्गाभोगसन्निभैः।
ऊरुभिः पृथिवी च्छन्ना मनुजानां नराधिप॥ 7-113-18(49386)
शशाङ्कुसन्निभैश्चैव वदनैश्चारुकुण्डलैः।
पतितैर्ऋषभाक्षाणां बभौ भारत मेदिनी॥ 7-113-19(49387)
गजैश्च बहुधा छिन्नैः शयानैः पर्वतोपमैः।
रराजातिभृशं भूमिर्विकीर्णैरिव पर्वतैः॥ 7-113-20(49388)
तपनीयमयैर्योक्त्रैर्मुक्ताजालविभूषितैः।
उरश्छदैर्विचित्रैश्च व्यशोभन्त तुरङ्गमाः।
गतसत्वा महीं प्राप्य प्रमृष्टा दीर्घबाहुना॥ 7-113-21(49389)
नानाविधानि सैन्यानि तव हत्वा तु सात्वतः।
प्रविष्टस्तावकं सैन्यं द्रावयित्वा चमूं भृशम्॥ 7-113-22(49390)
ततस्तेनैव मार्गेण येन यातो धनञ्जयः।
इयेष सात्यकिर्गन्तुं ततो द्रोणेन वारितः॥ 7-113-23(49391)
भारद्वाजं समासाद्य युयुधानश्च सात्यकिः।
न न्यवर्तत सङ्क्रुद्धो वेलामिव जलाशयः॥ 7-113-24(49392)
निवार्य तु रणे द्रोणो युयुधानं महारथम्।
विव्याध निशितैर्बाणैः पञ्चभिर्मर्मभेदिभिः॥ 7-113-25(49393)
सात्यकिस्तु रणे द्रोणं राजन्विव्याध सप्तभिः।
हेमपुङ्घैः शिलाधौतैः कङ्कबर्हिणवाजितैः॥ 7-113-26(49394)
षं षड्भिः सायकैर्द्रोणः साश्वयन्तारमार्दयत्।
स तं न ममृषे द्रोणं युयुधानो महारथः॥ 7-113-27(49395)
सिंहनादं ततः कृत्वा द्रोणं विव्याध सात्यकिः।
दशभिः सायकैश्चान्यैः षड्भिरष्टाभिरेव च॥ 7-113-28(49396)
युयुधानः पुनर्द्रोणं विव्याध दशभिः शरैः।
एकेन सारथिं चास्य चतुर्भिश्चतुरो हयान्।
ध्वजमेकेन बाणेन विव्याध युधि मारिष॥ 7-113-29(49397)
तं द्रोणः साश्वयन्तारं सरथध्वजमाशुगैः।
त्वरन्प्राच्छादयद्बाणैः शलभानामिव व्रजैः॥ 7-113-30(49398)
तथैव युयुधानोऽपि द्रोणं बहुभिराशुगैः।
`प्राच्छादयदसम्भ्रान्तस्त्वरमाणो महारथः॥ 7-113-31(49399)
द्रोणस्तु परमक्रुद्धः सात्यकिं परवीरहा।
अवाक्रिच्छितैर्बाणैर्वासुदेवपराक्रमम्॥ 7-113-32(49400)
तं तथा शरजालेन प्रच्छाद्य महता पुनः।
द्रोणः प्रहस्य शैनेयमिदं वचनमब्रवीत्'॥ 7-113-33(49401)
तवाचार्यो रणं हित्वा गतः कापुरुषो यथा।
युध्यमानं च मां हित्वा प्रदक्षिणमवर्तत॥ 7-113-34(49402)
त्वं हि मे युध्यतो नाद्य जीवन्यास्यसि माधव।
यदि मां त्वं रणे हित्वा न यास्याचार्यवद्द्रुतम्॥ 7-113-35(49403)
सात्यकिरुवाच। 7-113-36x(4551)
धनञ्जयस्य पदवीं धर्मराजस्य शासनात्।
गच्छामि स्वस्ति ते ब्रह्मन्न मे कालात्ययो भवेत्॥ 7-113-36(49404)
आचार्यानुगतो मार्गः शिष्यैरन्वास्यते सदा।
तस्मादेव व्रजाम्याशु यथा मे स गुरुर्गतः॥ 7-113-37(49405)
सञ्जय उवाच। 7-113-38x(4552)
एतावदुक्त्वा शैनेय आचार्यं परिवर्जयन्।
प्रयातः सहसा राजन्सारथिं चेदमब्रवीत्॥ 7-113-38(49406)
द्रोणः करिष्यते यत्नं सर्वथा मम वारणे।
यत्तो याहि रणे सूत शृणु चेदं वचः परम्॥ 7-113-39(49407)
एतदालोक्यते सैन्यमावन्त्यानां महाप्रभम्।
अस्यानन्तरतस्त्वेतद्दाक्षिणात्यं महद्बलम्॥ 7-113-40(49408)
तदनन्तरमेतच्च बाह्लिकानां महद्बलम्।
बाह्लिकाभ्याशतो युक्तं कर्णस्य च महद्बलम्॥ 7-113-41(49409)
अन्योन्येन हि सैन्यानि भिन्नान्येतानि सारथे।
अन्योन्यं समुपाश्रित्य न त्यक्ष्यन्ति रणाजिरम्॥ 7-113-42(49410)
एतदन्तरमासाद्य चोदयाश्वान्प्रहृष्टवत्।
मध्यमं जवमास्थाय वह मामत्र सारथे॥ 7-113-43(49411)
बाह्लिका यत्र दृश्यन्ते नानाप्रहरणोद्यताः।
दाक्षिणात्याश्च बहवः सूतपुत्रपुरोगमाः॥ 7-113-44(49412)
हस्त्यश्वरथसम्बाधं यच्चानीकं विलोक्यते।
नानादेशसमुत्थैश्च पदातिभिरधिष्ठितम्॥ 7-113-45(49413)
`*ततः शक्यो महाव्यूहो भेत्तुं स सहसा रणे।
तं देशं त्वरिता यामो मृद्ग्रन्तो युधि शात्रवान्॥ 7-113-46(49414)
तत्रैते सम्प्रहृष्टत्वान्नास्मान्प्रति युयुत्सवः॥ 7-113-47(49415)
अयुध्यमानो बहुभिरेकं प्राप्य सुदुर्बलम्।
बलं प्रमथ्य गच्छामि मिषतां सर्वधन्विनाम्॥ 7-113-48(49416)
मध्यतो याहि यत्रोग्रं कर्णस्य सुमहद्बलम्।
यत्रैते परमक्रुद्धा दाक्षिणात्या महारथाः।
एतान्विजित्य सङ्ग्रामे ततो यामो धनञ्जयम्॥ 7-113-49(49417)
सञ्जय उवाच। 7-113-50x(4553)
युयुधानवचः श्रुत्वा युयुधानस्य सारथिः।
यथोक्तमगमद्राजन्वर्जयन्द्रोणमाहवे'॥ 7-113-50(49418)
तं द्रोणोऽनुययौ क्रुद्धो विकिरन्विशिखान्बहून्।
युयुधानं महाभागं गच्छन्तमनिवर्तिनम्॥ 7-113-51(49419)
स च सैन्यं महद्भित्त्वा दाक्षिणात्यबलं च तत्।
कर्णस्य सैन्यं सुमहदभिहत्य शितैः शरैः॥ 7-113-52(49420)
प्राविशद्भारतीं सेनामपर्यन्तां स सात्यकिः।
सात्यको हि ततः सैन्यं द्रावयन्स समन्ततः॥ 7-113-53(49421)
प्रविष्टे युयुधाने तु सैनिकेषु द्रुतेषु च।
अमर्षी कृतवर्मा तु सात्यकिं पर्यवारयत्॥ 7-113-54(49422)
तमापतन्तं विशिखैः षड्भिराहत्य सात्यकिः।
चतुर्भिश्चतुरोऽस्याश्वानाजघानाशु वीर्यवान्॥ 7-113-55(49423)
ततः पुनः षोडशभिर्नतपर्वभिराशुगैः।
सात्यकिः कृतवर्माणं प्रत्यविध्यत्स्तनान्तरे॥ 7-113-56(49424)
स ताड्यमानो विशिखैर्बहुभिस्तिग्मतेजनैः।
सात्वतेन महाराज कृतवर्मा न चक्षमे॥ 7-113-57(49425)
स वत्सन्दतं सन्धाय तिग्मांश्वनलसप्रभम्।
आकृष्य राजन्नाकर्णाद्विव्याधोरसि सात्यकिम्॥ 7-113-58(49426)
स तस्य देहावरणं भित्त्वा देहं च सायकः।
सपुङ्खपत्रः पृथिवीं विवेश रुधिरोक्षितः॥ 7-113-59(49427)
अथास्य बहुभिर्बाणैरच्छिनत्परमास्त्रवित्।
स मार्गणगणं राजन्कृतवर्मा शरासनम्॥ 7-113-60(49428)
विव्याध च रणे राजन्सात्यकिं सत्यविक्रमम्।
दशभिर्विशिखैस्तीक्ष्णैरभिक्रुद्धः स्तनान्तरे॥ 7-113-61(49429)
ततः प्रशीर्णे धनुषि शक्त्या शक्तिमतां वरः।
जघान दक्षिणं बहुं सात्यकिः कृतवर्मणः॥ 7-113-62(49430)
ततोऽन्यत्सुदृढं चापं पूर्णमायम्य सात्यकिः।
व्यसृजद्विशिखांस्तूर्णं शतशोऽथ सहस्रशः॥ 7-113-63(49431)
सरथं कृतवर्माणं समन्तात्पर्यवारयत्।
छादयित्वा रणे राजन्हार्दिक्यं स तु सात्यकिः।
अथास्य भल्लेन शिरः सारथेः समकृन्तत॥ 7-113-64(49432)
स पपात हतः सूतो हार्दिक्यस्य महारथात्।
ततस्ते यन्तृरहिताः प्राद्रवंस्तुरगा भृशम्॥ 7-113-65(49433)
अथ भोजस्तु सम्भ्रान्तो निगृह्य तुरगामन्स्वयम्।
तस्थौ वीरो धनुष्पाणिस्तत्सैन्यान्यभ्यपूजयन्॥ 7-113-66(49434)
स मुहूर्तमिवाश्वास्य सदश्वान्समनोदयत्।
व्यपेत भीरमित्राणामावहत्सुमहद्भयम्॥ 7-113-67(49435)
सात्यकिश्चात्यगात्तस्मात्स तु भीममुपाद्रवत्॥ 7-113-68(49436)
युयुधानोऽपि राजेन्द्र भोजानीकाद्विनिःसृतः।
प्रययौ त्वरितस्तूर्णं काम्भोजानां महाचमूम्॥ 7-113-69(49437)
स तत्र बहुभिः शूरैः सन्निरुद्धो महारथैः।
न चचाल तदा राजन्सात्यकिः सत्यविक्रमः॥ 7-113-70(49438)
सन्धाय च चमूं द्रोणो भोजे भारं निवेश्य च।
अभ्यधावद्रणे यत्तो युयुधानं युयुत्सया॥ 7-113-71(49439)
तथा तमनुधावन्तं युयुधानस्य पृष्ठतः।
न्यवारयन्त संहृष्टाः पाण्डुसैन्ये ब्रृहत्तमाः।
समासाद्य तु हार्दिक्यं रथानां प्रवरं रथम्॥ 7-113-72(49440)
पाञ्चाला विगतोत्साहा भीमसेनपुरोगमाः।
विक्रम्य वारिता राजन्वीरेण कृतवर्मणा॥ 7-113-73(49441)
यतमानांश्च तान्सर्वानीषद्विगतचेतसः।
अभितस्ताञ्शरौघेण क्लान्तवाहानकारयत्॥ 7-113-74(49442)
निगृहीतास्तु भोजेन भोजानीकेप्सवो रणे।
अतिष्ठन्नार्यवद्वीराः प्रार्थयन्तो महद्यशः।
`हार्दिक्यं समरे यत्ता न शेकुः प्रतिवीक्षितुम्'॥ ॥ 7-113-75(49443)
इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिवसयुद्धे त्रयोधशाधिकशततमोऽध्यायः॥ 2 ॥
Mahabharata - Drona Parva - Chapter Footnotes
5-113-12 ईशो रुद्रः॥ 5-113-19 ऋषोभस्येवाक्षीणि येषाम्॥ 5-113-35 त्वंहि त्वमपि॥ 5-113-42 भिन्नानि पृथग्भूतानि॥ 5-113-* एतदादि पञ्चश्लोकानां स्थाने अधो लिखित एकएव श्लोकः झ. पुस्तकेऽस्ति। एतावदुक्त्वा यन्तारं ब्राह्मणं परिवर्जयन्। मध्यतो याहि यच्चोग्रं कर्णस्य च महद्वलम्॥ 5-113-58 जिह्मागानिलसन्निभम् इति। झ. पाठः॥ 5-113-71 सन्धाय यथास्थानमानीय॥ 5-113-75 आर्यवत्कुलीनवत्। कुलीनत्वादितियावत्॥ 5-113-113 त्रयोदशाधिकरशथतमोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|